#श्री सत्य नारायण पूजा#
कथा# अनुष्ठान#
अक्षत :
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥
ॐ श्री सत्यनारायणाय नमः, अक्षतान् समर्पयामि ।
( कुंकुम युक्त अक्षत चढ़ाएँ। बिना टूटे चावल सात बार धोए हुए अक्षत कहलाते हैं)
पुष्पमाला :
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाऽऽह्तानि पुष्पाणि गृहाण परमेश्वर ॥
ॐ श्री सत्यनारायणाय नमः, पुष्पं पुष्पमालां च समर्पयामि ।
( पुष्प तथा पुष्पमालाएँ चढ़ाएँ)
दूर्वांकुर :
दूर्वांकुरान् सुहरितानमृतान् मंगलप्रदान् ।
आनीतांस्तव पूजार्थं गृहाण परमेश्वर ॥
ॐ श्री सत्यनारायणाय नमः, दूर्वांकुरान् समर्पयामि ।
( दूर्वांकुर अर्पित करें।)
आभूषण :
वज्रमाणिक्य वैदूर्य मुक्ता विद्रूम मण्डितम् ।
पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम् ॥
ॐ श्री सत्यनारायणाय नमः, आभूषणानि समर्पयामि ।
( आभूषण समर्पित करें।)
नाना परिमलद्रव् य
दिव्यगंधसमायुक्तं नानापरिमलान्वितम् ।
गंधद्रव्यमिदं भक्त्या दत्तं स्वीकुरु शोभनम् ॥
ॐ श्री सत्यनारायणाय नमः, नानापरिमलद्रव्याणि समर्पयामि ।
( परिमल द्रव्य चढ़ाएँ)
धूप :
वनस्पतिरसोद्भूतो गन्धाढ्यः गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ श्री सत्यनारायणाय नमः, धूपमाघ्रापयामि ।
( धूप आघ्रापित करें।)
दीप :
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश ! त्रैलोक्यतिमिरापहम् ॥
ॐ श्री सत्यनारायणाय नमः, दीपं दर्शयामि ।
( दीपक दिखाकर हाथ धो लें।)
नैवेद्य :
( पंचमिष्ठान्न व सूखी मेवा अर्पित करें)
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
ॐ श्री सत्यनारायणाय नमः, नैवेद्यं निवेदयामि ।
आचमन :
नैवेद्यांते ध्यानं आचमनीयं जलं उत्तरापोऽशनं हस्तप्रक्षालनार्थं मुखप्रक्षालनार्थं च जलं समर्पयामि ।
( नैवेद्य निवेदित कर पुनः हस्तप्रक्षालन के लिए जल अर्पित करें।)
ऋतुफल :
फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् ।
तस्मात् फलप्रदादेन पूर्णाः सन्तु मनोरथाः ॥
ॐ श्री सत्यनारायणाय नमः, ऋतुफलं निवेदयामि। मध्ये आचमनीयं जलं उत्तरापोऽशनं च समर्पयामि ।
( ऋतुफल अर्पित करें तथा आचमन व उत्तरापोऽशन के लिए जल दें।)
ॐ श्री सत्यनारायणाय नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि ।
( प्रार्थना करते हुए नमस्कार करें।)
क्षमा-याचना :
आवाहनं न जानामि न जानामि विसर्जनम् ॥
पूजां चैव न जानामि क्षमस्व परमेश्वर ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥
ॐ श्री सत्यनारायणाय नमः, क्षमायाचनां समर्पयामि ।
( क्षमा-याचना करें)
पूजन समर्पण :
हाथ में जल लेकर निम्न मंत्र बोलें :-
' ॐ अनेन यथाशक्ति अर्चनेन श्रीसत्यनारायणाय प्रसीदतुः ॥'
( जल छोड़ दें, प्रणाम करें)
ॐ तत्सद् ब्रह्मार्पणमस्तु ।
No comments:
Post a Comment